२१८

अथाछिद्रं पदनिधनं राथन्तरम् ।

तस्माद्रा थन्तरेऽहन्क्रियते ।

प्रजापतिर्वा अकामयताछिद्रः प्रजया पशुभिरभवत् ।

तदेवाछिद्र स्थाछिद्र त्वम् ।

अछिद्र एव प्रजया पशुभिर्भवति य एवं वेद ।

देवा वा आप्तां वाचमछिद्रे णैवैभ्यो लोकेभ्यस्समदलुम्पन् ।

आप्तेव वा एतर्हि वाग्भवति छन्दोमेषु ।

तामछिद्रे णैव संलुम्पन्ति ।

यो वै छिद्र ण सञ्चिनोति न तदुत्पूर्यते ।

अथ योऽछिद्रे ण सञ्चिनोति तदुत्पूर्यते ।

ज्यायोऽभ्यारम्भं भवत्य् । अति नवममहर्जिहीते । दशममहरभ्यारभते । प्रति सप्तममपधावति ।

प्रजापतिः पशूनसृजत ।

तेऽस्मात्सृष्टा अपाक्रामन् ।

सोऽकामयत न मत्पशवोऽपक्रामेयुर् । अभि मा वर्तेरन्निति ।

स एतत्सामापश्यत् ।

तेनैनान्पर्यास्यत् ।

ताञ्श्रैष्ठ्येनोपागृह्णात् ।

तेऽस्मिन्नरमन्त ।

रमन्तेऽस्मिन्पशवः पशुमान्भवति य एवं वेद २१८