२१७

अथ हारायणम् ।

देवासुरा अस्पर्धन्त ।

ते देवा अकामयन्त हरोऽसुराणां हरेमेति ।

त एतत्सामापश्यन् ।

तेनास्तुवत ।

तेनासुराणां हरोऽहरन् ।

तद्यद्धरोऽहरंस्तद्धारायणस्य हारायणत्वम् ।

हरति हरो द्विषतो भ्रातृव्यस्य य एवं वेद ।

हारायण आङ्गिरसः पशुकामस तपोऽतप्यत ।

स एतत्सामापश्यत् ।

तेनास्तुत ।

शग्ध्यू षु शवीपत इन्द्र विश्वाभिरूतिभिः ।

भगं न हि त्वा यशसं वसुविदमनु शूर चरामसि

पौरो अश्वस्य पुरुकृद्गवामस्युत्सो देव हिरणयः ।

इत्येव गव्यांश्चाश्व्यांश्च पशूनवारुन्द्ध ।

तैरु पशुभिरिष्ट्वा स्वर्गमेव लोकमगच्छत् ।

तदेतत्पशव्यं स्वर्ग्यं साम ।

अव पशून्रुन्द्धे गच्छति स्वर्गं लोकं य एवं वेद ।

यदु हारायण आङ्गिरसोऽपश्यत्तस्माद्धारायणमित्याख्यायते २१७