अथ द्वैगतं पदनिधनं राथन्तरम् ।
तस्माद्रा थन्तरेऽहन्क्रियते ।
देवा वै सर्वं यज्ञं सङ्गृह्योर्ध्वा स्वर्गं लोकमुदक्रामन् ।
ते मनुष्या यज्ञं न प्रजानन् ।
तद्व्यच्छिद्यत ।
ते देवमनुष्या अशनायन्न् । इतःप्रदानाद्धि देवा जीवन्त्य् । अमुतःप्रदानान्मनुष्याः ।
तेन ऊर्ध्वा आहुतयोऽगच्छन् । नामुतोऽर्वाची वृष्टिः प्रादीयत ।
ते देवा अयास्यमब्रुवन्मनुष्या वै यज्ञं न प्रजानन्ति ।
तद्व्यच्छेदि ।
तेभ्यः परेहियज्ञं विधेहीति ।
सोऽयास्य एत्यैतेनैव साम्ना मनुष्येभ्यो यज्ञं व्यदधात् ।
सोऽयं मनुष्येषु यज्ञो विहितः ।
स मनुष्येषूषित्वा स्वर्गं लोक पुनर्न प्राजानात् ।
सोऽकामयत प्र स्वर्गं लोकं जानीयामिति ।
स एतेनैव साम्ना स्तुत्वा स्वर्गं लोकं पुनः प्राजानात् ।
तदेतत्स्वर्ग्यं साम ।
अश्नुते स्वर्गं लोक य एवं वेद ।
अथो हास्यैतेनेव साम्ना यज्ञो विहितो भवति ।
स यदयास्योऽमुष्माल्लोकादिमं लोकमागच्छद् । अस्माल्लोकादमुं लोकमगच्छत् । स इमौ लोकौ द्विरनुसमचरत् । तद्द्वैगतस्य द्वैगतत्वम् ।
अयास्यो ह वाव द्विगत् २१६