२१५

अथ पौरुहन्मनमभ्यारम्भो यज्ञस्य प्रत्यपसारः ।

अभ्येव नवममहरारभते प्रति सप्तममपधावति ।

अभ्यारम्भैर्वै देवा असुरान्यज्ञादन्तरायन् ।

पुरुहन्मा वैखानसः पशुकामस्तपोऽतप्यत ।

स एतत्सामापश्यत् ।

तेनास्तुत ।

स एतामिळामुपैत् ।

पशवो वा इळा ।

ततो वै स पशूनवारुन्द्ध ।

तदेतत्पशव्यं साम ।

अव पशून्रुन्द्धे बहुपशुर्भवति य एवं वेद ।

यदु पुरुहन्मा वैखानसोऽपश्यत्तस्मात्पौरुहन्मनमित्याख्यायते ।

देवासुरा अस्पर्धन्त ।

ते देवा अकामयन्त पूर्व एवासुरान्हन्यामेति ।

त एतत्सामापश्यन् ।

तेनास्तुवत ।

तेनासुरान्पूर्वेऽघ्नन् ।

तद् यत्पूर्वेऽघ्नंस्तद्वेव पौरुहन्मनस्य पौरुहन्मनत्वम् ।

पूर्वं एव द्विषन्तं भ्रातृव्यं हन्ति य एवं वेद २१५