अथगायत्रपार्श्वम् ।
इमे वै लोका गायत्रपार्श्वम् ।
एष्वेव तल्लोकेषु प्रतितिष्थन्ति ।
देवा वै स्वर्गकामास्तपोऽतप्यन्त ।
त एतत्सामापश्यन् ।
तेनास्तुवत ।
तदेनान्गायत्रमेव भूत्वा स्वर्गं लोकमवहत् ।
तेऽब्रुवन्स्वर्गं लोकं गत्वा गायत्रं वाव नोऽस्य साम्नः पक्षावभूतामिति ।
तदेव गायत्रपक्षस्य गायत्रपक्षत्वम् ।
गायत्रपक्षं ह वै नामैतत् ।
तद्गायत्रपार्श्वमित्याख्यायते ।
तद्धिङ्कारवद्भवत्यन्नाद्यस्य प्रत्थ्यै ।
हिङ्कारवद्भिर्वै प्रजापतिः प्रजाभ्योऽन्नाद्यं प्रायच्छत् ।
प्रास्मा अन्नाद्यं दीयते य एवं वेद २१४