अभि सोमास आयव
इत्यभीति भवति रथन्तरस्य रूपम् ।
राथन्तरमेतदहः ।
पवन्ते मद्यं मदम् ।
समुद्र स्याधि विष्टपे मनीषिणो मत्सरासो मदच्युतः
इति समुद्र वतीर्भवन्ति । छन्दोमानां रूपम् ।
समुद्रो वै छन्दोमाः ।
तरत्समुद्रं पवमान ऊर्मिणा राजा देव ऋतं बृहत् ।
अर्षा मित्रस्य वरुणस्य धर्मणा प्र हिन्वान ऋतं बृहत्
नृभिर्येमाणो हरियतो विचक्षणो राजा देवस्समुद्रि यः
इति चतुरृचं भवति चतुष्पदा वै पशवः ।
पशवश्छन्दोमाः पशूनामेवावरुद्ध्यै ।
तासु द्विहिङ्कारं वामदेव्यम् ।
पशवो वै सिमाः ।
पशवो रेवतयः ।
पशवो द्विहिङ्कारं वामदेव्यम् ।
पशुमन्त एव भवन्त्येनेन तुष्टुवानाः ।
प्रजापतिः पशूनसृजत ।
तेऽस्मात्सृष्टा असञ्जानाना अपाक्रामन् ।
सोऽक्रामयताभि मा पशवस्सञ्जानीरन् ।
न मदपक्रामेयुरिति ।
स एतत्सामापश्यत् ।
तेनास्तुत ।
ततो वै तं पशवोऽभिसमजानत ।
ततोऽस्मादनपक्रामिणोऽभवन् ।
तद्द्विहिङ्कारं भवति ।
हुमिति वै पशवस्सञ्जानते । हुमिति माता पुत्रमभ्येति । हुमिति पुत्रो मातरम् ।
तदेतत्सञ्ज्ञानं पशूनां साम ।
अभ्येनं पशवस्सञ्जानते । नास्मात्पशवोऽपक्रामन्ति य एवं वेद ।
तदैळं भवति पशवो वा इळा । पशवश्छन्दोमाः पशूनामेवावरुद्ध्यै २१३