२१२

अथ मार्गीयवं पदनिधनं राथन्तरम् ।

तस्माद्रा थन्तरेऽहन्क्रियते ।

मृगयुर्वै देवोऽकामयतोभयेषां पशूनामैश्वर्यमाधिपत्यं गच्छेयं ये च ग्राम्या ये चारण्या इति ।

स एतत्सामापश्यत् ।

तेनास्तुत ।

ततो वै स उभयेषां पशूनामैश्वर्यमाधिपत्यमगच्छद्ये च ग्राम्या ये चारण्याः ।

ततो ह स्म वै तस्मै मृगो मृगमानयति ।

तदेतत्पशव्यं साम ।

उभयेषां पशूनामैश्वर्यमाधिपत्यं गच्छति ये च ग्राम्या ये चारण्या य एवं वेद ।

एष ह वाव स देवो मृगयुः ।

न हास्यैष पशूनभिमन्यते य एवं वेद ।

यदु मृगयुर्देवोऽपश्यत्तस्मान्मार्गीयवमित्याख्यायते २१२