२११

अथाशु ।

देवा वा अकामयन्ताशु स्वर्गं लोकमियामेति ।

त एतत्सामापश्यन् ।

तेनास्तुवत ।

ततो वै त आशु स्वर्गं लोकमायन् ।

तदेवाशीराशुत्वम् ।

तदेतद्स्वर्ग्यं साम ।

आश्वेवैतेन स्वर्गं लोकमेति य एवं वेद ।

तद्वेवाचक्षत आशु भार्गवमिति ।

देवासुरा अस्पर्धन्त ।

ते देवा भृगुमुपाधावञ्जयामासुरानिति ।

स एतद्भृगुस्सामापश्यत् ।

तेनास्तुत ।

ततो वै देवा असुरानजयन् ।

तेऽब्रुवन्नाशु वावेदं भृगोरभूदिति ।

तद्वेवाशोराशुत्वम् ।

तदु भ्रातृव्यहा कामसनि ।

हन्ति द्विषन्तं भ्रातृव्यम् ।

यत्काम एतेन स्तुत । समस्मै स काम ऋध्यते २११