२१०

अथ धुरां साम द्र वदिळं राथन्तरम् ।

तस्माद्रा थन्तरेऽहन्क्रियते ।

छन्दांसि वै धुरः ।

यातयामान इवैते यच्छन्दोमाः ।

तद्यदत्र धुरां साम क्रियते तेनैव छन्दोमा धूर्वन्तश्छन्दस्वन्तोऽयातयामानः क्रियन्ते ।

अथो प्राणा वै धुरः ।

पशवो धुरः ।

प्राणेष्वेव तत्पशुषु प्रतितिष्ठति ।

अथेळतं त्रिणिधनं सवनानां कॢप्त्यै ।

एतद्ध वै समृद्धं यद्गायत्रं त्रिणिधनम् ।

इळन्काव्य स्वर्गकामस्तपोऽतप्यत ।

स एतत्सामापश्यत् ।

तेनास्तुत ।

स इममेव लोकं प्रथमेन निधनेनाभ्यारोहद् । अन्तरिक्षं द्वितीयेन । अमुं तृतीयेन ।

तानिमांस्त्रील्ँ लोकानभ्यारोहत् ।

ततो वै स स्वर्गे लोके प्रत्यतिष्ठत् ।

तदेतत्स्वर्ग्यं प्रतिष्ठा साम ।

गच्छ्ति स्वर्गं लोकं । प्रति स्वर्गे लोके तिष्थति य एवं वेद ।

यद्विळन्काव्योऽपश्यत्तस्मादैळतमित्याख्यायते ।

अथ सौमित्रं । भ्रातृव्यहा सेन्द्रं साम ।

हन्ति द्विषन्तं भ्रातृव्यमास्येन्द्रो हवं गच्छति य एवं वेद ।

अथ सौपर्णमुक्तब्राह्मणम् ।

तच्चतुरक्षरणिधनं भवति चतुष्पदा वै पशवः । पशवश्छन्दोमाः पशूनामेवावरुद्ध्यै २१०