अध्वर्यो अद्रि भिस्सुतम्
इति त्रिष्टुभो रूपेण प्रयन्ति ।
त्रैष्टुभमेतदहः ।
सोम पवित्र आ नय ।
पुनाहीन्द्रा य पातवे
तव त्य इन्दो अन्धसा
इत्यन्धस्वतीर्भवन्त्यन्नं वा अन्धोऽन्नाद्यस्यैवावरुद्ध्यै ।
देवा मधोर्व्याशत ।
पवमानस्य मरुतः
इति मरुत्वतीर्भवन्ति ।
मरुत्वद्वै मध्यन्दिनस्य रूपम् ।
मध्यन्दिनस्यैव तद्रू पान्न यन्ति ।
दिवः पीयूषमुत्तमम्
इत्युत्तमो ह्येष त्र्यहः क्रियते यच्छन्दोमाः ।
तासु गायत्रमुक्तब्राह्मणम् ।
अथाञ्जः पदनिधनं राथन्तरम् ।
तस्माद्रा थन्तरेऽहन्क्रियते ।
देवा वा अकामयन्ताञ्जसा स्वर्गं लोकमारोहेमेति ।
त एतत्सामापश्यन् ।
तेनास्तुवत ।
ततो वै तेऽञ्जसा स्वर्गं लोकमारोहन् ।
तदेवाञ्जसोऽञ्जस्त्वम् ।
तदेतत्स्वर्ग्यं साम ।
अञ्जसैवैतेन स्वर्गं लोकमारोहति य एवं वेद ।
तद्वेवाचक्षते वैरूपमिति ।
पशवो वै विरूपाः ।
पशवो वैरूपम् ।
पशुष्वेवैतत्पशूननुसन्दधाति ।
विरूप आङ्गिरसः पशुकामस्तपोऽतप्यत ।
स एतत्सामापश्यत् ।
तेनास्तुत ।
ततो वै स पशूनवारुन्द्ध ।
तदेतत्पशव्यं साम ।
अव पशून्रुन्द्धे बहुपशुर्भवति य एवं वेद ।
यदु विरूप आङ्गिरसोऽपश्यत्तस्माद्वैरूपमित्याख्यायते २०९