२०८

यदद्य सूर उदित

इति मैत्रावरुणं भवति ।

यदिति रथन्तरस्य रूपम् ।

राथन्तरमेतदहः ।

अनागा मित्रो अर्यमा ।

सुवाति सविता भगः

सुप्रावीरस्तु स क्षयः प्र नु यामन्सुदानवः ।

यो नो अंहोऽतिपिप्रति

इत्यतिहायन् ।

उत स्वराजो अदितिरदब्धस्य ब्रतस्य ये ।

महो राजान ईशते

इति महद्ध्येतदहर्यच्चतुश्चत्वारिंशम् ।

तमिन्द्रं वाजयामसी

त्यैन्द्रं भवति ।

महे वृत्राय हन्तव

इति घ्नद्वत् ।

एतद्वै यजमानम्य स्वं स्तोत्रं यद्ब्रह्मणः ।

स्व एव तदायतने यजमानस्य सर्वं पाप्मानं घ्नन्ति ।

स वृषा वृषभो भुवद्

इति वृषण्वद्भवति ।

वृषण्वद्वै त्रिष्टुभो रूपम् ।

त्रैष्टुभमेतदहः ।

इन्द्र स्स दामने कृत ओजिष्टस्स बले हित

इति ।

एतेन वै तृतीयेन त्र्यहेण देवा ऊर्ध्वा स्वर्गं लोकमायन् ।

स एषामसङ्गृहीतो वीवाह्वलत् ।

तस्मिन्निन्द्र स्स दामने कृत ओजिष्ठस्स बले हित इत्येव बलमदधुः ।

गिरा वज्रो न सम्भृत

इत्येवैनं समभरन् ।

सबलो अनपच्युत

इत्येवैनं सबलमकुर्वन् ।

तं संस्कृत्य तेन स्वर्गं लोकमायन् ।

तद्यदेतदाज्यं भवति स्वर्गम्यैव लोकस्य समष्ट्यै ।

यत्प्रथमस्याह्न षन्द्रा ग्नं तदैन्द्रा ग्नं राथन्तरम् ।

राथन्तरं ह्येतदहः ।

समैन्याज्यानि भवन्ति ।

नानाग्रामाविव ह वा एतौ यत्पृष्ठ्यस्य षडहश्छन्दोमाश्च ।

स यथा नानाग्रामो मित्राणि व्यतिषज्याभय आसीयातां तादृक्तद्यत्समैन्याज्यानि भवन्ति ।

असमैनि हैक कुर्वन्ति ।

तस्मात्समैन्येव कार्याणि ।

चतुश्चत्वारिंश स्तोमो भवति ।

चतुश्चत्वारिंशदक्षरा वै त्रिष्टुप् ।

इन्द्रि यं वीर्यं त्रिष्टुप् ।

इन्द्रि य एवैतद्वीर्ये प्रतितिष्ठन्तो यन्ति २०८