अग्निं वो देवमग्निभिस्सजोषा
इत्याग्नेयमाज्यं भवति राथन्तरम् ।
राथन्तरं ह्येतदहः ।
यजिष्ठं दूतमध्वरे कृणुध्वम् ।
यो मर्त्येषु निध्रुविरृतावा तपुमूर्वा घृतान्नः पावकः
इति ।
एतद्वा अग्नेः प्रियं धाम यद्घृतम् ।
प्रियेणैवैनं तं धाम्ना समृद्वयन्ति ।
प्रोथदश्वो न यवसेऽविष्यन्न्
इत्यश्ववद्भवति भ्रातृव्यस्यैवावनुत्त्यै ।
यदा महस्संवरणाद्व्यस्थाद्
इति महद्ध्येतदहर्यच्चतुश्चत्वारिञ्चम् ।
आदस्य वातो अनु वाति शोचिरघ स्म ते व्रजनं कृष्णमस्ती
ति ।
यदा वा अग्निं वात उपवाजयत्यथ स महद्दीप्यते ।
तदेतद्दीप्तिरेव ब्रह्मवर्चसस्य रूपम् ।
उद्यस्य ते नवजातस्य वृष्ण
इति त्रैष्टुभं रूपमुपगच्छन्ति ।
त्रैष्टुभ ह्येतदहः ।
अग्ने चरन्त्यजरा इधानाः ।
अच्छा द्यामरुषो धूम एषि सं दूतो अग्न ईयसे हि देवान्
इति स्वर्गस्य लोकस्य समष्ट्यै २०७