२०६

ता एता भवन्ति त्रिष्टुभस्त्रिष्टुब्वर्णा अह्नो रूपेण समृद्धाः ।

यत्र वा अहारूपेण समर्धयन्ति सं तत्रर्ध्यते ।

समस्मा ऋध्यते य एवं वेद ।

एते सोमा अभि प्रियम्

इत्यभीति भवति रथन्तरस्य रूपम् ।

राथन्तरमेतदहः ।

इन्द्र स्य काममक्षरन्न्

इति यदैन्द्रं तत्त्रिष्टुभो रूपम् ।

क्षत्रं हि त्रिष्टुप् ।

वर्धन्तो अस्य वीर्यम्

इति वृद्धं ह्येतदहर्यच्चतुश्चत्वारिंशं सूक्तमनुरूपो भवति पशवो वै सूक्तं पशवश्छन्दोमाः पशूनामेवावरुद्ध्यै ।

अथो भूमा वै पशवो । भूमा सूक्तम् ।

पशूनामेवैतत्पऋऊननुरूपान्कुर्वन्ति ।

नात्र प्रत्यक्षानुरूपं कुर्वन्ति ।

तस्मात्पशवो नानारूपाञ्जनयन्त्युत श्वेता कृष्णं जनयत्य् । उत कृष्णा श्वेतम् । उत रोहिणी कल्माषम् । उत कल्माषी रोहितम् ।

नवर्चं भवति ।

नव वै पुरुषे प्राणाः ।

प्राणैरेवैतत्समृध्यमाना यन्ति । प्राणेषु प्रतितिष्ठन्तः ।

द्वितीयं नवर्चं भवति । तृतीयं नवर्चं भवति ।

अभिपूर्वमेवैतत्प्राणैस्समृध्यमाना यन्ति ।

पञ्चर्चं भवति पञ्चपदा वै पङ्क्तिः ।

पाङ्क्ताः पशवः ।

पशवश्छन्दोमाः पशूनामेवावरुद्ध्यै ।

तदाहु ऋतुमान्पृष्ठ्यष्षडहोऽनृतवश्छन्दोमाः ।

अनृताविव एते प्रतिष्ठिता यच्छन्दोमा इति ।

तद्यदेतानि पञ्चर्च ष्षडृचानि भवन्ति तेनैवर्तुमन्तश्छन्दोमाः क्रियन्ते ।

पर्यासो भवति प्रजानां धृत्यै पशूनामुपस्थित्यै ।

चतुश्चत्वारिंश स्तोमो भवति ।

चतुश्चत्वारिंशदक्षरा वै त्रिष्टुप् ।

इन्द्रि यं वीर्यं त्रिष्टुप् ।

इन्द्रि य एवैतद्वीर्ये प्रतितिष्ठन्तो यन्ति २०६