शिशुं जज्ञानं हर्यतं मृजन्ती
ति हरिवतीर्भवन्ति ।
हरिवती वै परमा वाचस्तनूः ।
वाचं छन्दोमैस्समिच्छन्ति ।
आप्तेव वा एतर्हि वाग्भवति छन्दोमेषु ।
तामेवैतत्संविन्दन्ति ।
शुम्भन्ति विप्रं मरुतो गणेने
ति मरुत्वतीर्भवन्ति ।
मरुत्वद्वै त्रिष्टुभो रूपम् ।
त्रैष्टुभमेतदहः ।
अथो क्षत्रं वै त्रिष्टुब्विशो मरुतः ।
तद्यत्त्रिष्टुभो मरुत्वतीर्भवन्ति । क्षत्रायैव तद्विशमनुवर्त्मानं कुर्वन्ति ।
तस्मात्क्षत्रस्य विडनुवर्त्मा
कविर्गीर्भिः काव्येन कविस्सन्सोमः पवित्रमत्येति रेभन्न्
इत्यतिहायन् ।
ऋषिमना य ऋषिकृत्स्वर्षास्सहस्रनीथः पदवीः कवीनाम्
इति सहस्ररूपं छन्दोमानामुपगच्छन्ति ।
पशवो वै छन्दोमाः ।
तृतीयं धाम महिषस्सिषासन्न्
इति तृतीयो ह्येष त्रियहः क्रियते यच्छन्दोमाः ।
सोमो विराजमनु राजति ष्टुब्
इति त्रैष्टुभं रूपमुपगच्छन्ति ।
तरिष्टुभं ह्येतदहः ।
अथो पूर्वो वैष सहो राज्यम् ।
तमेवैतच्छन्दोमा अनु राजन्ति ।
चमूषच्छ्येनश्शकुनो विभृत्वा गोविन्दुर्द्र प्स आयुधानि बिभ्रद्
इति गोमतीः पशुमतीर्भवन्ति पशूनामेवावरुद्ध्यै ।
पशवो हि छन्दोमाः ।
अपामूर्मिं सचमानस्समुद्र म्
इति समुद्र वतीर्भवन्ति । छन्दोमानां रूपम् ।
समुद्रो वै छन्दोमाः ।
तुरीयं धाम महिषो विवक्ती
ति तुरीयं ह्येतदहरह्नां क्रियते यच्छन्दोमाः २०५