२०४

तासु वसिष्ठस्य वीङ्कमतिक्रान्तिः ।

अति वा एतर्ह्यनुष्टुबनुष्टुभं क्रामति ।

सैषानुष्टुप्सती त्रयस्त्रिंशदक्षरा सम्पद्यते ।

तेनातिक्रामति ।

वसिष्ठो वै जीतो हतपुत्रोऽकामयत वीमाल्ँ लोकानश्नुवीय । वि प्रजया पशुभिरश्नुवीयेति ।

स एतत्सामापश्यत् ।

तेनास्तुत ।

तेन वीवीत्येवेमाल्ँ लोकानाश्नुत । वि प्रजया पशुभिराश्नुते ।

तदेतत्स्वर्ग्यं प्रजननं साम ।

वीमाल्ँ लोकानश्नुते । वि प्रजया पशुभिरश्नुते । य एवं वेद ।

तदु स्तोभानुतुन्नं भवति ।

अनुतुन्नाद्वै प्रजाः पशवः प्रजायन्ते ।

पशवश्छन्दोमाः ।

तेन वै रूपसमृद्धम् ।

यदु वसिष्ठोऽपश्यत्तस्माद्वसिट्ठस्य वीङ्कमित्याख्यायते ।

तदैळमच्छावाकसाम भवति ।

पशवो वा इळा ।

पशुष्वेवैतत्प्रतितिष्ठन्ति २०४