२०३

ऋषयो वै सत्रादुत्थायायन्त आयुञ्जानाः ।

ते होचुरेत किं चिदेव यक्षं पश्यामेति ।

ते होचुरकूपारो वा अयं कश्यपस्समुद्रे ऽन्तर्महद्यक्षम् ।

एत तं पश्यामेति ।

तं हान्वभ्यवेयुः ।

तेभ्यो ह नाविरास ।

ते होचुरेतेन्द्र मेव स्तवाम स वावास्येशे ।

स एव न इमं दर्शयिष्यतीति ।

तेऽत्रिमब्रुवन्नृषे । त्वं स्तुतादिति ।

स एतमत्रिस्तृचमपश्यत् ।

तेनैनमुपायन्

यदिन्द्र चित्र म इह नास्ति त्वादातमद्रि वः ।

राधस्तन्नो विदद्वस उभयाहस्त्या भर

इति ।

स हेक्षाञ्चक्रे महद्बत म ऋषयो याचन्ति ।

उभयाहस्त्या भरे

ति वा आहुरिति ।

यत्ते दिक्षु प्रराध्यं मनो अस्ति श्रुतं बृहत् ।

तेन दृढा चिदद्रि व आ वाजं दर्षि सातये

इति ।

स हेक्षाञ्चक्रे दृढं बत म ऋषयो याचन्ति ।

न हाजज्ञावकूपारं दिदृक्षन्त इति ।

यन्मिन्यसे वरेण्यमिन्द्र द्युक्षं तदा भर ।

विद्याम तस्य ते वयमकूपारस्य दावने

इति ।

स हाजज्ञावकूपारं वै दिदृक्षन्त इति ।

तं ह पदोदस्यन्नुवाचेदमेव मेदमृषयो महदिवोभयाहस्त्या भरे

त्यवोचन्निति ।

तमपश्यन् ।

ता एताः कामसनय ऋचः ।

एतं वै ते काममकामयन्त ।

स एभ्यः कामस्समार्ध्यत ।

यत्काम एवैताभिरृग्भि स्तुते । समस्मै स काम ऋध्यते २०३