२०२

तदु ह सुश्रवा स्थौरायणः पितानुबुबुधे कुत्सो ह वै म औरवः पुत्रं संवृश्च्योदके प्राकारीदिति ।

तमाद्रुत्याब्रवीत्क्व मे पुत्रमकरिति ।

एष उदके प्रकीर्णश्शेत इति ।

तं हान्वभ्यवेयाय ।

तस्य हेन्द्रो रोहितो भूत्वा मुखात्सोमं निष्पपौ ।

स हेक्षाञ्चक्रेऽयं वावेन्द्रः ।

इदमेव स्तवानि ।

अयमेव म इमं समैरयिष्यतीति ।

स एतत्सामापश्यत् ।

तेनैनमस्तौद्

अपादु शिप्रियन्धसस्सुदक्षस्य प्रहोषिणः ।

इन्दोरिन्द्रो यवाशिरः

इति ।

तमब्रवीत्किङ्कामो मा स्तौषीति ।

इममेव मे पुत्रं समैरयेत्यब्रवीत् ।

तमे मथाया इत्युदमथ्नात् ।

तं समैरयत् ।

तदेतद्भेषजं प्रायश्चित्तिस्साम ।

भेषजं वै स तत्प्रायश्चित्तिमकुरुत ।

विभ्रष्टमिवैतदहर्यत्सप्तमम् ।

तदेवैतेन भिषज्यन्ति ।

भेषजमेवैतेन प्रायश्चित्तिं कुर्वते ।

तदु कामसनि ।

एतं वै स काममकामयत ।

सोऽस्मै कामस्समार्ध्यत ।

यत्काम एवैतेन साम्ना स्तुते समस्मै स काम ऋध्यते ।

यदु सुश्रवा स्थौतायणोऽपश्यत्तस्मात्सौश्रवसमित्याख्यायते २०२