२०१

तं ह जिग्युः ।

तं ह द्वितीयं तं ह तृतीयमेत्योवाच याजयानि त्वेति ।

स होवाच न वा इह यजन्ते ।

यो वा इह यजेत । जिनीयुर्वै तम् ।

द्विर्वै स्योऽयजत ।

तं त्यमजिनन्नेवेति ।

तमु ह लोकं लोकमेव दर्शयाञ्चकारेममिममु वाव लोकमिष्ट्वा जयतीति ।

स हेक्षाञ्चक्रेऽपि त्यं जिनन्तु । हन्त यजा एवेति ।

तं होवाच याजय मेति ।

तं ह याजयाञ्चकार ।

स्वयमेव सदोहविर्धाने उत्तस्थतुर् । उलूखले सोममभिषुषाव ।

स होवाच कमयज इति ।

उपगुमिति ।

तमु ह स्वयमेवोपोत्थाय संवृश्च्योदके प्रचकार २०१