२००

तं ह बबाधे मल्लोऽसीति ।

स होवाच मघवन्मामुया भूम ।

तेभ्यो वै नस्त्वं तद्देहि । येन वयं जीवाम ।

त्वद्वै वयं जाता स्म इति ।

स वा एतानन्तरांसयोः पांसून्प्रध्वंसयस्वेति ।

तान्ह प्रध्वंसयाञ्चक्रे ।

ते हैव रजसश्च रजीयांसश्च नाम महाञ्जनपद उत्तस्थौ ।

तेषां ह राजास ।

तस्य होपगुस्सौश्रवसः पुरोहित आस ।

स होवाच मा कश्चन यष्ट ।

यो म ईशायां यजते । ज्येयस्सः ।

न वै देवा अहुतस्यादन्ति ।

न पर्णाहुतिश्च न होतव्येति ।

स हेन्द्र उपगुं सौश्रवसमेत्योवाच याजयानि त्वेति ।

स होवाच न वा इह यजन्ते ।

यो वा इह यजेत । जिनीयुर्वै तमिति ।

तं ह लोकं लोकं दर्शयाञ्चकारेममिमं वै लोकमिष्ट्वा जयतीति ।

स हेक्षाञ्चक्रेऽपि त्यं जिनन्तु ।

हन्त यजा इति ।

तं होवाच याजय मेति ।

तं ह याजयाञ्चकार ।

स्वयमेव सदोहविर्धाने उत्तस्थतुः ।

उल्खले सोममभिषुषाव ।

स होवाचारादेव कुत्सादिहागहीति ।

स ह कुत्समेवोपेयाय ।

तं होवाच कमयज इति ।

उपगुमिति ।

एतमुपगुं जिनीतेति २००