१९९

तासु सौश्रवसम् ।

कुत्सो ह वा औरव इन्द्र स्योरोरधि निर्मित आस ।

यादृश एवेन्द्र स्तादृश । यथात्मनो निर्मित स्यादेवम् ।

तं ह सङ्ग्रहीतारं चक्रे ।

तं ह जाययाभिजग्राह शच्या पौलोम्या ।

तां होवाव कथेत्यमकरिति ।

सा होवाच न वां व्यज्ञासमिति ।

स होवाच खलतिं वा एनं करिष्यामि । तथा विजानीतादिति ।

तं ह खलतिं चकार ।

स होष्णीषं परिहृत्योपनिपेदे ।

स एवैष सङ्ग्रहीतुरुष्णीषः ।

तं हाभ्येव जग्राह ।

तां होवाच कथेत्थमकरिति ।

सा होवाच न वां व्यज्ञासम् । उष्णीषेण वै मा परिहृत्योपन्यपादीति ।

स होवाचान्तरांसयोर्वा अस्य पांसूनधिवप्स्यामि । तथा विजानीतादिति ।

तस्य हान्तरांसयोः पांसूनध्युवाप ।

त एवैते सङ्ग्रहीतुरन्तरांसयोः पांसवः ।

तान्ह प्रावृत्योपनिपेदे ।

तं हाभ्येव जग्राह ।

तां होवाच कथेत्थमकरिति ।

सा होवाच न वां व्यज्ञासम् ।

प्रावृत्य वै मोपन्यपादीति १९९