१९८

अथ यज्ञायज्ञीयमुक्तब्राह्मणम् ।

आ ते वत्सो मनो यमद्

इत्यावतीर्भवन्ति ।

अपच्छिदिव वा एतद्यज्ञकाण्डं यदुक्थानि ।

तद्यदावतीर्भवन्ति यज्ञस्यैव सलोमतायै ।

तासु वात्सम् ।

वत्सः काण्वः पशुकामस्तपोऽतप्यत ।

स एतत्सामापश्यत् ।

तेनास्तुत ।

स ह वाव त्रिशोको यानेवामूंस्त्रीञ्छोकानपाहन्सास्य त्रिशोकता ।

स ह स सद्य एवालोम्नो कर्णकान्पशूनवारुन्द्ध ।

तदेतत्पशव्यं साम ।

अव पशून्रुन्द्धे बहुपशुर्भवति य एवं वेद ।

यदु वत्सः काण्वोऽपश्यत्तस्माद्वात्समित्याख्यायते ।

त्वं न इन्द्रा भरे

ति त्वमिति भवति बृहतो रूपम् ।

बार्हतमेतदहः ।

ओजो नृम्णं शतक्रतो विचर्षणे ।

आ वीरं पृतनासहमिति यद्वै शतवत्सहस्रवत्तच्छन्दोमानां रूपम् ।

पशवो वै छन्दोमाः १९८