तासु जराबोधीयम् ।
शाक्त्यास्तरसपुरोडाशास्सत्रमासत ।
स गौरिवीतिश्शाक्त्यो मृगमहन् ।
तं तार्क्ष्यस्सुपर्ण उपरिष्टादभ्यवापतत् ।
तस्मा उपप्रत्यधत्त ।
तमब्रवीदृषे । मा मेऽस्थः ।
यत्कामोऽसि तं ते कामं समर्धयिष्याम इति ।
किङ्कामः खल्वहमस्मीत्यब्रवीत् ।
असितस्य धाम्न्यस्य दुहितरं कामयसे ।
तस्यै त्वा निवक्ष्यामीति ।
अथ हासितो धाम्न्य ईर्ष्युरास ।
तस्य हान्तरिक्षे प्रासाद आस ।
तद्धास्य दुहितरं जुगुपुः ।
तं ह स्म पत्रनाड्यामुपगुह्यास्यै कुमार्यै निवहति । तं ह स्मैतेनैव साम्ना प्रातर्बोधयति जार बुध्यस्वेति ।
तदेव जराबोधीयस्य जराबोधीयत्वम् ।
सेयं कुमारी गर्भमधत्त ।
स कुमारोऽजायत ।
तमसुरा विच्छिद्य परास्यन्तोऽब्रुवञ्जामीगर्भो वा अयं । रक्षो वा इदमजनीति ।
तमकामयत समेनमीरयेयमिति ।
स एतत्सामापश्यत् ।
तेनैवं समैरयत् ।
स एव सङ्कृतिर्गौरिवीतोऽभवत् ।
तदेतद्भेषजं प्रायश्चित्तिस्साम ।
भेषजं वै स तत्प्रायश्चित्तिमकुरुत ।
विभ्रष्टमिवैतदहर्यत्सप्तमम् ।
तदेवैतेन भिषज्यन्ति ।
भेषजमेवैतेन प्रायश्चित्तिं कुर्वते ।
तदु कामसनि ।
एतं वै स काममकामयत ।
सोऽस्मै कामस्समार्ध्यत ।
यत्काम एवैतेन साम्ना स्तुते । समस्मै स काम ऋध्यते ।
तस्यो प्राचीमिळामुपयन्ति ।
पशवो वा इळा ।
पशवश्छन्दोमाः ।
पशुष्वेवैतद्रे तांसि दधति १९७