अथ कार्तवेशम् ।
त्रेधा भरतेषु राष्ट्रमासीद्वैतहव्येषु तृतीयं । मित्रवत्सु तृतीयं । कृतवेशे तृतीयम् ।
सोऽकामयत कृतवेशो ह त्विमे द्वे राष्ट्रे एकधा राष्ट्रं स्यादिति ।
स एतद्द्विनिधनं सामापश्यत् ।
तेनास्तुत ।
तेनेमे द्वे राष्ट्रे ह त्वैकधा राष्ट्रमभवत् ।
तदेतच्छ्रीर्भ्रातृव्यहा साम ।
अश्नुते श्रियं हन्ति द्विषन्तं भ्रातृव्यं य एवं वेद ।
यदु कृतवेशोऽपश्यत्तस्मात्कार्तवेशमित्याख्यायते ।
अथ श्यावाश्वं स्वर्ग्यं साम । स्वर्गस्य लोकस्य समष्ट्यै ।
अथान्धीगवमिळावत्यनुष्टुबसदिति -अनिळानुष्टुप्स्याद्यदेतदत्र कुर्युः ।
अथो पशवो वा इळा ।
पशवश्छन्दोमाः पशूनामेवावरुद्ध्यै ।
अथैता द्विपदो भवन्त्युक्तब्राह्मणाः ।
ता एता भवन्ति
प्र वाज्यक्षार्
इति प्रवतीर्भवन्ति ।
प्रायणीयरूपमेवैतदुपगच्छन्ति ।
प्रायणीयं ह्येतदहः ।
तासु सौहविषम् ।
देवा वा असुरान्हत्वा अपूता इवामेध्या अमन्यन्त ।
तेऽकामयन्त पूता मेध्या स्यामेति ।
त एतत्सामापश्यन् ।
तेनास्तुवत ।
ततो वै ते पूता मेध्या अभवन् ।
तेऽब्रुवन्सुहविषो वा अभूमेति ।
तदेव सौहविषस्य सौहविषत्वम् ।
पूतो मेध्यो भवति य एवं वेद ।
ये सोमासः परावती
ति परावतमिव ह्येतर्हि यज्ञोऽगच्छत् १९६