१९५

तासु प्लवम् ।

यो वै समुद्र मप्लवः प्रस्नाति नैनं स व्यश्नुतेऽथ यः प्लवी प्रस्नाति स व्यश्नुते ।

समुद्रो वै छन्दोमाः ।

तद्यत्प्लवं प्लविन एवैतेन ।

देवा वै स्वर्गकामास्तपोऽतप्यन्त ।

त एतत्सामापश्यन् ।

तेनास्तुवत ।

तदेनान्प्लवमेव भूत्वा स्वर्गं लोकमवहत् ।

तेऽब्रुवन्स्वर्गं लोकं गत्वा प्लवं वाव नो भूत्वेदं साम स्वर्गं लोकमवाक्षीदिति ।

तदेव प्लवस्य प्लवत्वम् ।

तदेतत्स्वर्ग्यं साम ।

अश्नुते स्वर्गं लोकं य एवं वेद ।

तद्वेवाचक्षते वसिष्ठस्य प्लवमिति ।

वसिष्ठो वा अकामयत स्वस्तीमाल्ँ लोकान्सर्वान्सम्प्लवेयेति ।

स एतत्सामापश्यत् ।

तेनास्तुत ।

ततो वै स स्वस्तीमाल्ँ लोकान्सर्वान्समप्लवत ।

तद्वेव प्लवस्य प्लवत्वम् ।

स्वस्तीमाल्ँ लोकान्सर्वान्सम्प्लवते य एवं वेद ।

वसिष्ठमृषयोऽमेधन्वैश्योऽस्यब्राह्मण इति ।

सोऽकामयत तरेयं दुरितं पाप्मानमिति ।

स एतत्सामापश्यत् ।

तेनास्तुत ।

तेन ए आति विश्वानि दुरिता तरेमे त्येव दुरितं पाप्मानमतरत् ।

तरति दुरितं पाप्मानं य एवं वेद ।

तद्द्वादशाक्षरणिधनं भवति द्वादशाक्षरा वै जगती ।

पशवो जगती ।

पशवश्छन्दोमाः पशूनामेवावरुद्ध्यै ।

यदु वसिष्ठोऽपश्यत्तस्माद्वसिष्ठस्य प्लवमित्याख्यायते ।

अथैता भवन्ति

पुरोजिती वो अन्धस

इति ।

पुरस्ताद्ध वा एताः पाप्मानं जयन्तीः । पुरस्तात्पाप्मानमपघ्नत्यो । यन्ति ।

जितं ह वा एताभिर् । विजितमन्ववस्यन्ति ।

अथो यथान्यौ नवतरौ चक्रावुपास्येदेवमेव एतामनुष्टुभं त्र्यहमुखेषु पर्याहरन्ति । स्वर्गस्य लोकस्य समष्ट्यै ।

तासु गौरिवीतमुक्तब्राह्मणम् १९५