स तेनैव मन्त्रेण स्वर्गं लोकमुदक्रामत् ।
स एवैष शर्कर उदेति ।
तद्वा अस्य स्वर्ग्यम् ।
अश्नुते स्वर्गं लोकं य एवं वेद ।
समुद्रो वै छन्दोमाः ।
शिंशुमारो वै समुद्र मतिपारयितुमर्हति ।
तद्यदत्र शार्करं भवति समुद्र स्यैवातिपारणाय ।
तत्पुनर्नितुन्नं छन्दो भवति ।
यत्र यत्र वै देवाश्छन्दसां रसमन्वविन्दंस्तत्पुनर्नितुन्नमकुर्वंस् । तत्पुनरभ्याघ्नन् ।
धीता इवैते यच्छन्दोमास्तृतीयसवनायतनाः ।
धीतमिव वै तृतीयसवनम् ।
तद्यत्पुनर्नितुन्नं छन्दो भवति रसमेवैतच्छन्दोमेषु दधति ।
रसस्यैवैषानुवित्तिः ।
तदु काकुभं स्वारं भवति ।
प्राणो वै स्वरः पुरुषश्छन्दसं ककुप् ।
ज्यैष्ठ्यं वै प्राणो ज्यैष्ठ्यं पुरुषः ।
ज्यैष्ठ्यैनैव तज्ज्यैष्ठ्यं सन्दधाति । ज्यैष्ठ्येन प्रतितिष्ठति ।
यदु शर्करस्शिंशुमारोऽपश्यत्तस्माच्छार्करमित्याख्यायते ।
सखाय आ नि षीदत पुनानाय प्र गायते
ति प्रवतीर्भवन्ति ।
प्रायणीयरूपमेवैतदुपगच्छन्ति ।
प्रायणीयं ह्येतदहः ।
शिशुं न यज्ञैः परि भूषत श्रिय
इति पशुरूपमेवैतदुपगच्छन्ति ।
पशूनां वै शिशुर्भवति १९४