१९३

तासु शार्करमिन्द्रं वै सर्वाणि भूतान्यस्तुवन् ।

तं शर्करस्शिञ्चुमार स्तोतुं नाकामयत ।

तमब्रवीत्स्तुहि मेति ।

सोऽब्रवीन्नाहं त्वां स्तोष्यामि ।

समुद्रे वा अहमप्स्वन्तश्चराम्युपनिमज्जन्न् । एतावतोऽहं त्वां स्तुयामिति ।

तं पर्जन्यो वृष्ट्योर्ध्वमुदप्लावयद्धन्वाभि ।

अपो हैवास्मै दर्शयाञ्चकार ।

तमुत्तराद्वातेन पर्यशोषयत् ।

सोऽवेत्परिशुष्कश्शयानो यद्वा अहमिदमित्थं न्यगाम् । इन्द्रो वाव मेदमित्थमकृद् । धन्त तमेव स्तवानि ।

स एव मा स्तुतस्समुद्रं पुनरभ्यवप्लावयिष्यतीति ।

स एतं मन्त्रमपश्यत् ।

तेनैनमस्तौद्

यो न इदमिदं पुरा प्र वस्य आनिनाय तमु व स्तुषे ।

सखाय इन्द्र मूतये

इति ।

तमब्रवीत्किङ्कामो मा स्तौषीति ।

इममेव मा समुद्रं पुनरभ्यवप्लावेत्यब्रवीत् ।

तं पर्जन्यो वृष्ट्या समुद्रं पुनरभ्यवाप्लावयत् ।

तदेतद्भेषजं प्रायश्चित्तिस्साम ।

भेषजं वै स तत्प्रायश्चित्तिमकुरुत ।

भेषजमेवैतेन प्रायश्चित्तिं कुर्वते ।

तदु कामसनि ।

एतं वै स काममकामयत ।

सोऽस्मै कामस्समार्ध्यत ।

यत्काम एवैतेन साम्ना स्तुते समस्मै स काम ऋध्यते १९३