अथ दक्षोणिधनम् ।
विभ्रष्टमिवैतदहर्यत्सप्तमम् ।
तद्दक्षोणिधनेनैव सन्दक्षयन्ति ।
प्रजापतिः प्रजा असृजत ।
ता अप्राणा असृजत ।
सोऽकामयत प्राणवतीर्म इमाः प्रजा स्युरिति ।
स एतत्सामापश्यत् ।
तेनैना दक्षाया इत्येवाभ्यमृशत् ।
प्राणा वै दक्षाः ।
प्राणानेवासु तददधात् ।
प्राणानेवात्मंश्च यजमाने च दधाति य एवं वेद ।
तदु होवाच सुदक्षिणः क्षैमिर्मन्थं हास्य कुले विदुर्न विविदुर्दक्षोणिधनं स्वित्ते पवमानमुखे चक्रुरिति ।
कथा हेति ।
मन्थं हि ते कुले न विन्दन्तीति ।
तस्मादग्नेरेवार्कः प्रथमायां कार्यः ।
एष स्य धारया सुत
इति सन्तनिनः प्रगाथस् । ससन्तनिकेन प्रगाथेनैतदहर्भिषज्यामेति ।
विभ्रष्टमिवैतदहर्यत्सप्तमम् ।
तत्ससन्तनिकेनैव प्रागाथेन भिषज्यन्ति ।
अव्या वारेभिः पवते मदिन्तमः ।
क्रीळन्नूर्भिरपामिव
इत्यति वा एतर्हि ककुप्ककुभं क्रामत्य् । अत्यनुष्टुबनुष्टुभम् ।
सैषा ककुप्सती त्रिष्टुप्सम्पद्यते ।
तेनातिक्रामति ।
साष्टममहरारभते ।
य उस्रिया अपिया अन्तरश्मनि निर्गा अकृन्तदोजसा ।
अभि व्रजं तत्निषे गव्यमश्व्यं वर्मीव धृष्णवा रुजा
इति गोमतीः पशुमतीर्भवन्ति । पशूनामेवावरुद्ध्यै ।
पशवो हि छन्दोमाः १९२