१९१

यस्ते मदो वरेण्य

इत्यार्भवस्य पवमानस्य मद्वतीर्गायत्र्यो भवन्ति ।

रसो अवि मदः ।

धीतमिवैतद्यत्तृतीयसवनम् ।

तद्यदेता मद्वतीर्भवन्ति रसमेवास्मिन्नेतद्दधत्य् । षवैनदेतेन प्याययन्ति ।

तेना पवस्वान्धसे

त्यन्धस्वतीर्भवन्त्यन्नं वा अन्धोऽन्नाद्यस्यैवावरुद्ध्यै ।

जघ्निर्वृत्रममित्रियम्

इति बार्हतं रूपम् ।

यदूर्ध्वं मध्यन्दिनात्तदेतस्याह्नो बार्हतम् ।

सम्मिश्लो अरुषो भुवस्सूपस्थाभिर्न धेनुभिर्

इति ।

विभ्रष्टमिवैतदहर्यत्सप्तमम् ।

तद्यत्सूपस्थाभिरित्यह्न एवोपस्थित्यै ।

तासु गायत्रमुक्तब्राह्मणम् ।

अथाग्नेरर्क आग्नेयं सामाग्नेयेऽहन्क्रियते ।

आग्नेयमेतदहर्यद्गायत्रम् ।

अग्निर्हि गायत्री ।

तद्यदत्राग्नेरर्कः क्रियतेऽहरेव तद्रू पेण समृद्धयन्ति ।

तेनैभ्यस्समृद्धेन स्वायां जनतायामर्धुकं भवति ।

अथो अन्नं वा अर्कोऽन्नाद्यस्यैवावरुद्ध्यै ।

अथ सोमसाम ।

प्रजननं वै सोमः ।

प्रजननमेतदहः ।

प्रजनन एवैतत्प्रजननं क्रियते ।

अथो क्षत्रं वै सोमः ।

क्षत्रिय उ वा अन्नाद्यस्य प्रदाता ।

स योऽन्नाद्यस्य प्रदाता स नोऽन्नाद्यं प्रयच्छादिति ।

तदध्यर्धेळं भवति पशवो वा इळा ।

पशवश्छन्दोमा -अभिपूर्वाणामेव पशूनामवरुद्ध्यै १९१