१९०

तासु वैखानसम् ।

वैखानसा वा एतानि सामान्यपश्यन्नभ्यारम्भं यज्ञस्य प्रत्यपसारम् ।

अभ्यारम्भैर्वै देवा असुरान्यज्ञादन्तरायन् ।

अथ ह वै वैखानसा इत्यृषिका इन्द्र स्य प्रिया आसुः ।

तान्ह रहस्युर्मारिम्लवो मारयाञ्चकार ।

तान्हेच्छन्रहस्युमुपेयाय ।

तं होवाच रहस्यो नेह तान्वैखानसानित्यृषिकानद्रा क्षीरिति ।

स होवाच स्यो वै भगवस्तानमारयदिति ।

तं होवाचां रहस्यो । यत्रा दुष्प्रतिज्ञाना भ्रूणहत्या ।

अथ कथं प्रत्यज्ञास्था इति ।

स होवाचानृटं च भ्रूणहत्यां चोदयांसम् ।

तदनृतमेवायासीत् ।

स सत्यमेवाभ्युपागादिति ।

तं होवाच वरं वृणीष्व यः प्रत्यज्ञास्था इति ।

स होवाच ब्राह्मण एव मे प्रजायामाजायतामिति ।

ते हैते तक्षवो राहस्यवा ।

अथो आहुरिन्द्र मेव तद्देवता अभ्यशंसन्निन्द्रं पर्यचक्षत त्वयि सतस्तवो मारिम्लवोऽमीमरदिति ।

सोऽकामयत समैनानीरयेयमिति ।

स एतत्सामापश्यत् ।

तेनैनान्समैरयत् ।

तदेतद्भेषजं प्रायश्चित्तिस्साम ।

भेषजं वै सत्प्रायश्चित्तिमकुरुत ।

विभ्रष्टमिवैतदहर्यत्सप्तमम् ।

तदेवैतेन भिषज्यन्ति ।

भेषजमेवैतेन प्रायश्चित्तिं कुर्वते ।

तदु कामसनि ।

एतं वै स काममकामयत ।

सोऽस्मै कामस्समार्ध्यत ।

यत्काम एवैतेन साम्ना स्तुते समस्मै स काम ऋध्यते ।

तदिन्द्रो ह वै विखानाः ।

स यदिन्द्र एतत्सामापश्यत् । तस्माद्वैखानसमित्याख्यायते ।

तदैळमच्छावाकसाम भवति ।

पशवो वा इळा ।

पशुष्वेवैतत्प्रतितिष्ठन्ति १९०