अथ बृहत् ।
वर्ष्म वै बृहत् ।
वर्ष्मण्येवैतत्प्रतितिष्ठन्तो यन्ति ।
तद्गायत्रेऽहन्भवति ।
पुंसो वा एतद्रू पं यद्बृहत् । स्त्रियै गायत्री ।
तद्यदत्र बृहत्पृष्ठं भवति तेनैवैतदहर्मिथुनं क्रियते ।
अथ वामदेव्यम् ।
पशवो वै वामदेव्यम् ।
पशुमन्त एव भवन्त्येनेन तुष्टुवानाः ।
वयं घ त्वा सुतावन्त
इति सतोबृहतीराक्रमन्तेऽनपभ्रंशाय ।
तास्वभिनिधनं काण्वम् ।
तदाहुर्विरुद्धं वा एतद्ब्रह्मसाम्नो यदन्यतरद्रू पमभिवदतीति ।
तद्यदभीति भवति तेन रथन्तरस्य रूपान्न यन्ति ।
इन्द्रो वै वृत्रमजिघांसत् ।
स कण्वमुपाधावदृष उप त्वा धावाम । इह नोऽधिब्रूहीति ।
स एतत्कण्वस्सामापश्यत् ।
तेनास्तुत ।
ततो वा इन्द्रो वृत्रमहन् ।
हन्ति द्विषन्तं भ्रातृव्यं य एवं वेद ।
यद्वेवास्मा एतेन साम्ना कण्वोऽभीति वज्रमभ्यनदत् । तस्मादभिनिधनं काण्वमित्याख्यायते ।
अथैता भवन्ति
नकिष्टं कर्मणा नशद्
इति ।
अति वा एतर्हि बृहती बृहतीं क्रामत्य् । अति ककुप्ककुमम् । अत्यनुष्टुबनुष्टुभम् ।
सैषा बृहती सती जगती सम्पद्यते ।
तेनातिक्रामति ।
सा अत्यष्टममहर्जिहीते । नवममहरभ्यारभते । प्रति षष्ठमपधावति १८९