१८८

पदेन हापेयात् ।

स्वं वा यज्ञमभ्युपेयाद् । इदं च त्वया कृतमिति वा ।

त एतमादित्यास्सद्यःक्रीयं यज्ञं समभरन् ।

तेऽब्रुवन्नग्ने चिरं तद्यच्छ्व । इमामेव वयं तुभ्यमद्य सुत्यां प्रब्रूमः ।

तेषां नस्त्वं होतासि । गौराङ्गिरसोऽध्वर्युर् । बृहस्पतिरुद्गाता अयास्यो ब्रह्मेति सर्वानवृणत ।

सोऽब्रवीद्दूतो वा अहं चरामीति ।

तमग्निं दूतं वृणीमह इत्येव दूतं चरन्तमवृणत ।

स एषां वृतो नापाक्रामत् ।

स पुनरेत्याब्रवीद् । अङ्गिरस । आदित्या वोऽद्यसुत्यां प्राहुरिति ।

तेन हातुरेव नोऽवृथा इति ।

नेति होवाच ।

दूतो युष्माकमभूवं । वृत एवामीषामस्म्य् । आदह नूनममी युषन्न्मेधावितरा वा धीरतरा वाभूवन्य एतद्पूर्वे दृशन्निति ।

ते वृता नापाक्रामन् ।

त एत्यायाजयन् ।

तेभ्य एतमादित्या आदित्यमेवाश्वं श्वेतं भूतमश्वाभिधान्यभिहितमयास्याय ब्रह्माश्वं नीत्वा स्वर्गं लोकमगच्छन् ।

अहीयन्ताङ्गिरसः ।

सोऽयास्यस्सदृशावात्मन श्रेयांसं वा प्रतिगृह्य व्यभ्रंशत ।

सोऽकामयत समात्मानं श्रीणीयेति ।

स एतत्सामापश्यत् ।

तेनात्मानं समश्रीणीत ।

विभ्रष्टमिवैतदहर्यत्सप्तमम् ।

तद्यदत्रायास्यं भवति समेवैनदेतेन श्रीणन्ति । भिषज्यन्त्येवैनमेतेन ।

यद्वयास्योऽपश्यत्तस्मादायास्यमित्याख्यायते ।

प्रो अयासीदिन्दुरिन्द्र स्य निष्कृतम्

इति प्रवदृचा च साम्ना चैतदहः प्रणयन्ति ।

उभौ वर्णौ समृद्ध्यै ।

प्रेति भृगवः प्र्त्यङ्गिरसः प्रेत्यादित्या स्वर्गं लोकमारोहन् ।

प्रेत्येवैतेन स्वर्गं लोकमारोहन्ति १८८