१८७

अथायास्यं बार्हतराथन्तरम् ।

उभौ वर्णौ समृद्ध्यै ।

मध्येनिधनं प्रतिष्ठायै ।

आदित्याश्च वा अङ्गिरसश्च स्वर्गे लोकेऽस्पर्धन्त ।

त षक्षन्त यतरे नो यतरान्याजयिष्यन्ति ते हास्यन्त इति ।

तेऽग्गिरसः पूर्वे यज्ञं समभरन् । श्वस्सुत्यान्तेऽग्निमाङ्गिरसं दूतं प्राहिण्वन्निमान्न श्वस्सुत्यामादित्येभ्यः प्रब्रूहीति ।

स एत्याब्रवीदादित्या । अङ्गिरसो व श्वस्सुत्यां प्राहुरिति ।

तं होचुरपेहि मन्त्रयित्वा त्वा प्रतिवक्ष्याम इति ।

तस्मादिदमप्येतर्हि दूतमाहुरपेहि मन्त्रयित्वा त्वा प्रतिवक्ष्याम इति ।

ते होचुरुप तज्जानीत यथा अस्मानेवाङ्गिरसो याजयेयुर्न वयमङ्गिरसः ।

यदि याजयिष्यामो हास्यामहे । यद्यु न याजयिष्यामो यज्ञाद्यशसोऽपक्रमिष्याम इति ।

तस्मादु ह वृतेन नापक्राम्यं । यज्ञाद्यशसो नेदपक्रामाणीति १८७