अथ समन्तम् ।
इन्द्रा ग्नी वा अकामयेतां समन्तौ स्याव । समानीमृद्धिमृध्नुयावेति ।
तावेतत्सामापश्यताम् ।
अर्धमन्योऽपश्यद अर्धमन्यः ।
तस्यान्तौ समाहृत्य समधत्ताम् ।
यत्समधत्तां तत्समन्तस्य समन्तत्वम् ।
तेनास्तुवाताम् ।
ततो वै तौ समन्तावभवतां । समानीमृद्धिमार्ध्नुताम् ।
तद्ब्रह्म वा अग्निः । क्षत्रमिन्द्रः ।
उभयं ब्रह्म च क्षत्रं चावरुन्द्धे य एवं वेद ।
तस्मादु हैतत्सामैतस्मादह्नो नान्तरित्यम् ।
इदं वै रथन्तरमदो बृहत् ।
इदमेवान्तरिक्षं समन्तमनयोरेव लोकयोस्समन्तत्वाय ।
एतेन वा एते समन्ते ।
समन्तेन पशुकाम स्तुवीत ।
पशवो वा अन्तरिक्षं । पशवस्समन्तम् ।
पशुमानेव भवति समन्तेन तुष्टुवानः ।
ब्राह्मणः पुरोधाकामस्समन्तेन स्तुवीत ।
आग्रेयो ब्राह्मण । षन्द्रो राजन्य । आग्नेयी पृथिव्य् । षन्द्री द्यौः ।
ते एतेऽन्तरिक्षमभि समन्ते ।
समन्तावेनौ करोति ब्राह्मणं च राजन्यं च समन्तेन तुष्टुवानो । गच्छति पुरोधां । पुर एवं दधते ।
प्रजापतिर्वा अकामयत समन्तः प्रजया पशुभि स्याम इति ।
स एतत्सामापश्यत् ।
तेनास्तुत ततो वै स समन्तः प्रजया पशुभिरभवत् ।
तद्वेव समन्तस्य समन्तत्वम् ।
समन्त एव प्रजया पशुभिर्भवति य एवं वेद १८६