अथ गौङ्गवं यत्साम देवता प्रशंसति ।
सामैतद्देवता प्रशंसति तेन यजमानास्सत्याशिषो भवन्ति ।
देवासुराः पशुष्वस्पर्धन्त ।
तेऽसुराः पशुभिस्सह समुद्र मभ्यवायन् ।
ते देवा अकामयन्त वृञ्जीमह्यसुराणां पशूनिति ।
त एतत्सामापश्यन् ।
तेनास्तुवत ।
तेनासुराणां पशूनवृञ्जत ।
तेऽब्रुवन्गां गां वावासुराणामवृक्ष्महीति ।
तदेव गौङ्गवस्य गौङ्गवत्वम् ।
तदेतत्पशव्यं साम ।
गां-गामेव द्विषतो भ्रातृव्यस्य वृङ्क्तेऽव पशून्रुन्द्धे बहुपशुर्भवति य एवं वेद ।
गौङ्गवेन वै देवा असुरान्हत्वा घोषं गङ्गणिमकुर्वत ।
तद्वेव गौङ्गवस्य गौङ्गवत्वम् ।
तदु भ्रातृव्यहा ।
हन्ति द्विषन्तं भ्रातृव्यं य एवं वेद ।
तदूर्ध्वमिव च तिर्यगिव च गीयते ।
यदूर्ध्वमिव गीयते तद्बृहतो रूपं । यत्तिर्यगिव तद्र थन्तरस्य ।
एतद्वै समृद्धं छन्दोमानां यदुभयं रूपम् १८५