तासु रौरवम् ।
देवा वा एता अयातयाम्नीस्तनूरसुरयुद्धाय प्रावृहन्त ।
अग्निरेव रौरवं प्रावृहत ।
तेनासुरानभ्यतपत् ।
तेऽभितप्यमाना अरवन्त ।
यदभितप्यमाना अरवन्त तद्रौ रवस्य रौरवत्वम् ।
अभितपति भ्रातृव्यं श्रेयान्भूत्वा य एवं वेद ।
तदाग्नेयं सामाग्नेयेऽहन्क्रियते ।
आग्नेयमेतदहर्यद्गायत्रम् ।
अग्निर्हि गायत्री ।
तद्यदत्र रौरवं क्रियतेऽहरेव तद्रू पेण समर्धयन्ति ।
तेनैभ्यस्समृद्धेन स्वायां जनतायामृद्धुकं भवति ।
तदैळं भवति पशवो वा इळा ।
पशवश्छन्दोमाः पशूनामेवावरुद्ध्यै ।
अथ रथन्तरम् ।
जामि द्वादशाहस्यास्तीत्याहुः ।
बार्हतं षष्ठमहर्बार्हतं सप्तमम् ।
पवमाने रथन्तरं प्रोहन्त्यजामितायै ।
नान्यतोऽपसक्तो विवधो ह्रियत इत्याहुः ।
तद्यदुभे बृहद्र थन्तरे भवतस्स विवधताया एव ।
यो वै मूलादग्रं सञ्चिक्रमिषति न स शक्नोत्य् । अथ योऽग्रादग्रं सङ्क्रामति स शक्नोति ।
अग्राद्वा एतेऽग्रं सङ्क्रामन्ति ये बृहतो बृहदुपयन्ति ।
तस्माद्बार्हतं षष्ठमहर्भवति । बार्हतं सप्तमम् १८४