१८३

अथ रोहितकूलीयम् ।

विश्वामित्रो वै भरतानामनस्वत्या महावृषानयात् ।

तद्ध गङ्गायै वा यमुनायै वा बृहत्प्रतिकूलमास ।

ते होचुर्महावृषाः कौ स्वित्तावेतर्ह्यनड्वाहौ । याविदमियद्बृहत्प्रतिकूलमुद्वहेतामिति ।

स होवाच विश्वामित्रस्तौ न्वै मम रोहिताविति ।

रोहितौ हास्यानड्वाहावासतुः ।

ते होचुर्महावृषास्ते वा अंशमवहरावहै यदि तअवितदनड्वाहावुद्वहातो । वस्न्य एव त्वमनांसि पूरयासै ।

यद्यु नोद्वहातो । वस्न्या उ वयं त्वां जयेमेति ।

तथेति ।

ते हांशमवजह्रिरे ।

तौ ह यवाचितस्य वा व्रीह्याचितस्य वा धुरि युयुजुः ।

सोऽकामयत विश्वामित्र -उदिममाजिं जयेयमिति ।

स एते सामनी अपश्यत् ।

ताभ्यामेनावनुपरिक्राममभ्यसेधत् ।

तावुदपारयेताम् ।

ताउदजयेताम् ।

ततो वै स तमाजिमुदजयत् ।

प्रतिकूलमिवैते यन्ति ये षष्ठादह्नश्छन्दोमानभ्युत्क्रामन्ति ।

तद्यदत्र रोहितकूलीयं भवत्युज्जित्या एव ।

उज्जयति य एवं वेद ।

तदु कामसनि ।

एतं वै स काममकामयत ।

सोऽस्मै कामस्समार्ध्यत ।

यत्काम एवैतेन साम्ना स्तुते । समस्मै स काम ऋध्यते ।

यदु कूले रोहिताभ्यामुदजयत् । तस्माद्रो हितकूलीये इत्याख्यायेते ।

पुनानस्सोम धारये

त्युभयरूपा बृहती भवति ।

एषा ह वा उभे सामनी उद्ययाम । तस्मादेतां कुर्वन्त्येव बृहत्साम्नः कुर्वन्ति रथन्तरसाम्नः १८३