१८२

वृषा पवस्व धारये

ति माध्यन्दिनस्य पवमानस्य वृषण्वतीर्गायत्र्यो भवन्ति बृहतो रूपम् ।

बार्हतमेतदहः ।

मरुत्वते च मत्सर

इति मरुत्वतीर्भवन्ति ।

मरुत्वद्वै मध्यन्दिनस्य रूपम् ।

मध्यन्दिनस्यैव तद्रू पान्न यन्ति ।

तं त्वा धर्तारमोण्योर्

इति विभ्रष्टमिवैतदहर्यत्सप्तमम् ।

तद्यत्तं त्वा धर्तारमित्यग्न एव धृत्यै ।

तासु गायत्रमुक्तब्राह्मणम् ।

अथ सन्तनि ।

यथा ह वै व्योकसौ विच्छिद्य व्युत्क्रामत एवं षष्ठं च सप्तमं चाहनी व्युच्छिद्य व्युत्कामतः ।

स यथाश्वं संयोजनेन संयुज्यादेवमत्र सन्तति ।

तस्य सकृत्प्रस्तौति । त्रिः प्रतिहरति । त्रिर्निधनमुपयन्ति ।

तत्सप्त सम्पद्यन्ते सप्तमस्याह्नो रूपं । सप्तरात्रस्य सन्तत्या अव्यवच्छेदाय ।

अथ सौपर्णमुक्तब्राह्मणम् ।

अतिक्रान्तो वा एतर्हि यज्ञो भवति सप्तमेऽहन् ।

तद्यदत्र सौपर्णम्भवति यज्ञस्यैवारम्भाय ।

तदैळं भवति पशवो वा इळा ।

पशवश्छन्दोमाः पशूनामेवावरुद्ध्यै १८२