ये ह खलु वा अयुज स्तोमास्ते युग्मन्तो । ये युग्मन्तस्तेऽयुजः ।
तद्येऽयुज स्तोमास्तान्ग्राम्याःपशवोऽन्वथ ये युग्मन्तस्तानारण्याः ।
तद्यदयुजां स्तोमानां साम युज्मोत्तमं भवति । तस्माद्ग्राम्याः पशवो युक्ता वहन्ति ।
अथ यद्युग्मतां स्तोमानां सामायुगुत्तमं भवति तस्मादारण्याः पशवो युक्ताश्चरन्ति ।
अथ यस्माद्दशमेऽहनि पञ्चदशत्रयस्त्रिंशौ स्तोमौ भवतस्तस्मादु यौ ज्येष्ठौ पशूनां तौ युक्तौ वहतो हस्ती चोष्ट्रश्च १८१