१८०

प्र वो मित्राय गायते

ति मैत्रावरुणं भवति ।

प्रायणीयरूपमेवैतदुपगच्छन्ति ।

प्रायणीयं ह्येतदहः ।

सम्राजा या घृतयोनी मित्रश्चोभा वरुणश्चे

त्युभयोरेवैतद्बृहद्र थन्तरयो रूपमुपगच्छन्ति ।

उभेऽप्यत्र बृहद्र थन्तरे क्रियेते ।

इन्द्रा

याहि चित्रभानो । इन्द्रा याहि धियेषित । इन्द्रा याहि तूतुजान

इत्या याह्या याहीति भवति ।

आ याह्या याह्या याहीति युक्तानां पुरस्तात्प्रयन्ति ।

यथा युक्तानां पुरस्तादा याह्या याहीति प्रेयात्तादृक्तद्यत्तृतीयस्याह्न षन्द्रा ग्नम् ।

तदैन्द्रा ग्नं समैन्याज्यानि भवन्ति ।

नानाग्रामाविव ह वा एतौ यत्पृष्ठ्यश्च षडहश्छन्दोमाश्च ।

स यथा नानाग्रामो मित्राणि व्यतिषज्याभय आसीयातां तादृक्तद्यत्समैन्याज्यानि भवन्ति ।

असमैनि हैके कुर्वन्ति ।

तस्मात्समैन्येव कार्याणि ।

चतुर्विंश स्तोमो भवति चतुर्विंशत्यर्धमासो वै संवत्सरोऽर्धमासश एवैतत्संवत्सरे प्रतितिष्ठन्तो यन्ति ।

अथो चतुर्विंशत्यक्षरा वै गायत्री ।

तेजो ब्रह्मवर्चसं गायत्री ।

तेजस्येवैतद्ब्रह्मवर्चसे प्रतितिष्ठन्तो यन्ति १८०