१७९

स यथा प्रीहितावीजं परिचते वासस्ता वासो निधनानिमं परिधत्त एवमेव तद्देवा अन्त्याभिरयातयाम्नीभिस्तनूभिरग्नेर्वैश्वानरस्य तन्वं व्यायन् ।

तथो एवैतर्हि वियन्ति ।

सर्वाणि वा अग्निष्टोमे संस्थिते ।

षडुक्थान्युत्क्रामन्ति ।

तान्येतस्मिन्षडहे संस्थित उत्क्रामन्ति ।

तान्येतस्मिन्नेवाग्नेय आज्ये पुनर्युज्यन्ते ।

मूर्धानं दिवो अरतिं पृथिव्या

इति द्यावापृथिवीयमेवैतेन युज्यते ।

वैश्वानरम्

इति वैश्वानरीयमेवैतेन युज्यते ।

ऋत आ जातमग्निम्

इति जातवेदसीयमेवैतेन युज्यते ।

कविं सम्राजमतिथिं जनानाम्

इति मरुत्वतीय-निष्केवल्ये एवैतेन युज्येते ।

आसन्ना पात्रं जनयन्त देवा

इत्याज्यप्र-उगे एवैतेन युज्येते ।

एवमेतान्युक्थानि पुनर्युज्यन्ते ।

अर्वाङ्ह्येष त्रियहस्तायते ।

तस्मान्मूर्धानं दिवो अरतिं पृथिव्या इति भवति ।

असौ वै दिवो मूर्धेयमरतिः पृथिव्यै १७९