१७८

तद्धि जघन्यं यज्ञे देवा अपश्यन् ।

अतीता इवैतर्हि भवन्ति ।

तदेवैतत्प्रत्युपगच्छन्ति सन्तत्यै ।

ते देवा अब्रुवन्यदिमावसत्रमतिरात्रावथ केनेमावग्नेर्वैश्वानरस्य तन्वं व्येष्याम इति ।

तेऽब्रुवन्या एव न इमा अन्त्या अयातयाम्न्यः परमा गुह्यास्तन्वस्ताभिर्व्ययामेति ।

मूर्धानं दिवो अरतिं पृथिव्या

इति द्यावापृथिव्योरन्त्यायातयाम्नी परमा गुह्या तनूः ।

वैश्वानरमृत आ जातमग्निम्

इत्यग्नेर्वैश्वानरस्यान्त्यायातयाम्नी परमा गुह्या तनूः ।

वैश्वानरमृत आ जातमग्निम्

इत्यग्नेर्वैश्वानरस्यान्त्यायातयाम्नी परमा गुह्या तनूः ।

कविं सम्राजमतिथिं जनानाम्

इतीन्द्र स्य सम्राड्वतीष्वन्त्यायातयाम्नी परमा गुह्या तनूः ।

आसन्ना पात्रं जनयन्त देवा

इति विश्वेषां देवानामन्त्यायातयाम्नी परमा गुह्या तनूः १७८