१७७

त्रयो वैश्वानरा अतिरात्रा अतिरात्रा द्वादशाहे कार्या इत्याहुः ।

प्राणः प्रथमो वैश्वानरोऽपानो द्वितीयो । व्यानस्तृतीयः ।

वाग्वा एषा प्रतता यद्द्वादशाहः ।

तां त्वयि विच्छिन्द्युः ।

तां हार्यलः काहोळिरुपेयाय त्र्यनीका विजित्येति ।

तमु ह ब्राह्मण उवाचानुष्ठ्या प्राणानुपागात् ।

वि वाचमच्छैत्सीदिति ।

तस्य ह तत्कुलं व्येव चिच्छिन्द्युः ।

तां हार्यलः काहोळिरुपेयाय त्र्यनीका विजित्येति ।

तमु ह ब्राह्मण उवाचानुष्ठ्या प्राणानुपागात् ।

वि वाचमच्छैत्सीदिति ।

तस्य ह तत्कुलं व्येव चिच्छिदे ।

ज्योक्तु हैव जिजीव ।

तदु ह पश्चेवानुसन्ताययाञ्चक्रे ।

मूर्धानं दिवो अरतिः पृथिव्या

इत्येवंरूपेण वैश्वानरः कार्यः ।

तन्न वाचं विछिनत्ति । नाग्निं वैश्वानरमन्तरेतीति ।

प्र वश्शुक्राय भानवे भरध्वम्

इति प्रवती कार्याः ।

प्रणिनीषेण्यं वा एतदहः ।

प्रेति गायत्र्यै रूपम् ।

गायत्र्या एवैतद्रू पेण प्रयन्ति ।

भूयांसि रूपाण्यपराध्यन्त ।

इतराण्येव भूयांसि रूपाणि ।

यन्

मूर्धानं दिवो अरतिं पृथिव्या

इत्याह द्यावापृथिवीयो वातिरात्रोऽतिरात्र एवैतेन रूपेण क्रियते ।

वैश्वानरमृत आ जातमग्निम्

इत्यग्निरेव वैश्वानरः प्रत्यक्षं भवति ।

कविं सम्राजमतिथिं जनानाम्

इति माध्यन्दिनं सवनम् ।

आसन्ना पात्रं जनयन्त देवा

इति षष्ठस्याह्नस्तृतीयसवनम्प्रत्युपगच्छन्ति १७७