नवर्चं भवति ।
नव वै पुरुषे प्राणाः ।
प्राणैरेवैतत्समृध्यमाना यन्ति । प्राणेषु प्रतितिष्ठन्तः ।
अथो तेनैव त्रिवृत स्तोमान्न यन्ति ।
यद्धि किं च प्रायणं त्रिवृत् ।
प्रायणमु एवोत्तरं नवर्चं भवति ।
अभिपूर्वमेवैतत्प्राणैः समृध्यमाना यन्ति ।
आ ते दक्षं मयोभुवम्
इति पर्यासो भवति । प्रजानां धृत्यै पशूनामुपस्थित्यै ।
तदाहुर्यत्समं कस्तृणस्याग्रं सर्पति । क्व स तपो भवतीति ।
उत्पक्षिणः पतन्तीत्याहुः ।
कथमपक्षा भिन्दत इति ।
पक्षिणीरिव वा एता यास्समानप्रायणास्समानोदयनाः ।
एताभिर्वा एतदहः पक्षि क्रियत । एताभिरुत्पतत्य् । एताभिस्त्रयस्त्रिंशं स्तोमं प्रत्युद्यच्छति ।
पक्षी पाप्मानं तरति । पक्षी श्रियमश्नुते य एवं वेद प्रेति पनमानस्य प्रथमेत्युत्तमैवमिव ह्येतदहः ।
तस्माद्वयस्सम्यक्पक्षाभ्यामेवैते ।
चतुर्विंश स्तोमो भवति ।
चतुर्विंशत्यर्धमासो वै संवत्सरः ।
अर्धमासश एवैतत्संवत्सरे प्रतितिष्ठन्तो यन्ति ।
अथो चतुर्विंशत्यक्षरा वै गायत्री ।
तेजो ब्राह्मवर्चसं गायत्री तेजस्येवैतद्ब्रह्मवर्चसे प्रतितिष्ठन्तो यन्ति १७६