ता एता भवन्ति त्रिष्टुभो गायत्रवर्णा अह्नो रूपेण समृद्धाः ।
यत्र वा अहारूपेण समृद्धयन्ति सं तत्रर्ध्यते ।
समस्मा ऋध्यते य एवं वेद ।
तदाहुर्यद्गायत्रं सप्तममहस् । त्रैष्टुभमष्टमं । जागतं नवमम् । अथ कस्मादेतद्गायत्रं सत्त्रिष्टुब्भिः प्रतिपद्यन्त इति ।
स ब्रूयात्सर्वे ह्येवैतच्छन्दोमास्त्रिष्टुप्प्रतिपदो भवन्तीति ।
प्र स्वानासो रथा इवे
ति प्रवतीर्भवन्ति ।
प्रायणीयरूपमेवैतदुपगच्छन्ति ।
प्रायणीयं ह्येतदहः ।
सूक्तमनुरूपो भवति पशवो वै सूक्तम् ।
पशवश्छन्दोमाः पशूनामेवावरुद्ध्यै ।
अथो भूमा वै पशवः ।
भूमा सूक्तम् ।
पशूनामेवैतत्पशूननुरूपान्कुर्वन्ति ।
नात्र प्रत्यक्षानुरूपान्कुर्वन्ति ।
तस्मात्पशवो नानारूपाञ्जनयन्त्युत श्वेता कृष्णं जनयन्त्य् । उत कृष्णा श्वेतम् । उत रोहिणी कल्माषम् । उत कल्माषी रोहितम् ।
अर्वन्तो न श्रवस्यवः ।
सोमासो राये अक्रमुः
इति प्रायणीयरूपमेवैतदुपगच्छन्ति ।
प्रायणीयं ह्येतदहः ।
हिन्वानासो रथा इवे
ति यद्वै रथवत्प्रायणीयरूपमु एव तत् ।
दधन्विरे गभस्त्योः ।
भरासः कारिणामिव
राजानो न प्रशस्तिभिस्सोमासो गोभिरञ्जते ।
इति गोमतीः पशुमतीर्भवन्ति । पशूनामेवावरुद्ध्यै ।
पशवो हि छन्दोमाः ।
यज्ञो न सप्त धातृभिर्
इति सप्तमस्याह्नो रूपमुपगच्छन्ति १७५