एता भवन्ति
प्र काव्यमुशनेव ब्रुवाण
इति प्रवतीः प्रायणेऽहन् ।
प्रणिनीषेण्यं वा एतदहः ।
प्रेति गायत्र्यै रूपम् ।
गायत्र्या एवैतद्रू पेण प्रयन्ति ।
देवो देवानां जनिमा विवक्री
ति सोमो वै देवो देवानां जनिमा ।
सोममेव तत्प्रजनयन्ति ।
महिव्रतश्शुचिबन्धुः पावक
इत्यन्नं वै देवाश्शुचिब्रतमित्याचक्षते ।
अन्नमु देवानां सोमः ।
तमेवैतत्प्रजनयन्ति ।
पदा वराहो अभ्येति रेभन्न्
इति वराहो वै भूत्वा प्रजापतिष्षष्ठाद् अह्नस्सप्तममहरभ्यत्यक्रामत् ।
अतिक्रान्तिरेवैषा ।
प्र हंसासस्तृपला वग्नुमच्छे
ति ब्राह्मणा ह वै हंसासस्तृपलाः ।
अमादस्तं वृषगणा अयासुर्
इति षडहो वा अमाच्छन्दोमा अस्तम् ।
छन्दांसि वृषगणाः ।
छन्दांस्येवैतच्छन्दोमानभ्यतिनयन्त्युत्तरस्य त्र्यहस्य सम्पारणाय ।
अङ्गोषिणं पवमानं सखायो दुर्मर्षं वाणं प्र वदन्ति साकम्
इति बृहद्र थन्तरे एवैतत्प्रातस्सवने युज्येते ।
ते युक्ते माध्यन्दिने सवनेऽभ्यारोहन्ति ।
स योजत उरुगायस्य जूतिं वृथा क्रीळन्तं मिमते न गाव
इति गोमतीः पशुमतीर्भवन्ति । पशूनामेवावरुद्ध्यै ।
पशवो हि छन्दोमाः ।
परीणसं कृणुते तिग्मशृङ्ग
इति ।
परीणसमित्याह -अन्नं वै परीणसमन्नाद्यस्यैवावरुद्ध्यै ।
दिवा हरिर्ददृशे नक्तमृज्र
इत्यतिरात्रो रूपेण क्रियते १७४