प्रजापतिर्वा एतं यज्ञमसृजत यद्द्वादशाहम् ।
तं पृष्ठ्येनैव षडहेन सर्वमाप्नोत् ।
स षक्षत कथं न्विमानि चत्वार्यहानि प्रतिसन्दध्यामिति ।
स गायत्र्या एव चतुर्विंशमहर्निरमिमीत । त्रिष्टुभश्चतुश्चत्वारिंशं । जगत्या अष्टाचत्वारिंशम् । अनुष्टुभ एव दशममहर्निरमिमीत ।
सर्वेभ्यो वा अहोभ्यस्तद्यच्छन्दोभ्यो निरमिमत तच्छन्दोमानां छन्दोमत्वम् ।
तदाहुराप्यन्ते वा एतत्स्तोमा । आप्यन्ते छन्दांस्य् । आप्यन्ते देवता । आप्यन्त ऋतवो ग्रहा । यदेष पृष्ठ्यष्षडह आप्यत इति ।
तद्यत्सप्तमस्याह्नश्चतुर्विंशं बहिष्पवमानं भवति चतुर्विंशत्यर्धमासस्संवत्सरः ।
संवत्सरो यज्ञो यज्ञमेवैतद्यज्ञमुख आरभन्ते ।
अथो चतुर्विंशत्यक्षरा वै गायत्री ।
गायत्र्यो वा आप्तं यज्ञक्रतुं पुनस्तन्वते ।
नो ह्यन्या गायत्र्या आप्तं यज्ञक्रतुमुद्यन्तुमर्हति १७३