१७२

तासु गोतमस्य भद्र म् ।

गोतमो वै श्रीकामस्तपोऽतप्यत ।

स एतत्सामापश्यत् ।

तेनास्तुत ।

ततो वै स श्रियमाश्नुत ।

तच्छ्रीर्वै भद्र म् ।

प्रजा वै भद्र म् ।

प्रजायै या प्रजा सा श्रेयः ।

अपि ह प्रजायै प्रजां पश्यते य एवं वेद ।

यदु गोतमोऽपश्यत्तस्माद्गोतमस्य भद्र मित्याख्यायते ।

प्र व इन्द्रा य वृत्रहन्तमाये

ति वार्त्रघ्न्यो भवन्त्य् । अन्ततो विजित्यै ।

देवा वै षडहेन विजित्याब्रुवन्किं नु नोऽस्यान्तत स्याद्यथा न इदं जितमसुरानपजयेयुरिति ।

ते पृष्ठानामेव रसान्सम्प्रावृहन् ।

तानभ्यस्वरन् ।

तदूर्ध्वमुदश्रयद्यथा वंश एवम् ।

तदुद्वंशीयमभवत् ।

तदुद्वंशीयस्योद्वशीयत्वम् ।

तद्यज्ञमत्यरिच्यत ।

तस्मादेतमुद्वंशपुत्रं प्रावृहन्त ।

रसादेव रसं तं पृष्ठ्यस्य षडहस्यान्ततोऽकुर्वंश्छन्दोमानामुद्वंशीयम् ।

तावेतौ वज्रावुद्यतावन्ततस्तिष्ठतः । पशूनां गुप्त्यै पशूनामपरावापाय ।

नास्य वित्तं परोप्यते य एवं वेद ।

सर्वेषां वा एतत्पृष्ठानां रूपं रसस्तेजस्सम्भृतम् ।

सर्वस्मिन्नेवैतत्पृष्ठरूपे रसे तेजस्यपराजिते छन्दसि यज्ञस्यान्ततः प्रतितिष्ठन्ति ।

तस्य पुरस्तान्निधनस्य प्रतिहारमुपयन्ति ।

प्रस्तावप्रतिहाराभ्यां वै यजमानो धृतः ।

अतीता इवैतर्हि भवन्ति तद्यत्पुरस्तान्निधनस्य प्रतिहारमुपयन्त्यनतिपादायैव ।

तत्स्वारं भवति ।

अभि सप्तममह स्वरति ।

स्वारमेव तद्भवति ।

स्वरेण श्वो भूते प्रतिपद्यन्ते ।

स यथा समात्समं सङ्क्रामेद् । यथा प्राणेन प्राणं सन्दध्यात् । तादृक्तत् १७२