तासु गूर्दः ।
देवासुरा अन्नाद्येऽस्पर्धन्त ।
ते देवा अन्नाद्यमसुराणामवृञ्जत ।
तेषु हासुरेषु गूर्द एव नाम महदन्नाद्यं परिशिशिषे ।
ते देवा अकामयन्त वृञ्जीमहीमं गूर्दमन्नाद्यमसुराणामिति ।
त एतत्सामापश्यन् ।
तेनास्तुवत ।
तेन गूर्दमन्नाद्यमसुराणामवृञ्जत ।
तस्मिन्नगूर्दन् ।
यदगूर्दंस्तद्गूर्दस्य गूर्दत्वम् ।
तदेतदन्नाद्यस्यावरुद्धिस्साम ।
अवान्नाद्यं रुन्द्धे वृङ्क्ते द्विषतो भ्रातृव्यस्यान्नाद्यं य एवं वेद ।
प्रजापतिरन्नाद्यमसृजत ।
तस्य सर्वे देवा ममत्विन आसन्मम ममेति ।
सोऽग्निरकामयताहमिदमन्नाद्यमुज्जयेयमिति ।
स एतत्सामापश्यत् ।
तेनैनं पर्यगृह्णात् ।
तदुदजयत् ।
तदेतदग्नावेव सर्वमन्नाद्यम् ।
तस्माद्यस्यै यस्यै देवतायै जुह्वत्य् । अग्नावेव जुह्वति ।
तस्मिन्नगूर्दत् ।
यदगूर्दत् । तद्वेव गूर्दस्य गूर्दत्वम् ।
तदेतदन्नाद्यस्यावरुद्धिस्साम ।
अवान्नाद्यं रुन्द्धेऽन्नाद श्रेष्ठ स्वानां भवति य एवं वेद ।
इमा नु कं भुवना सीषधेमेन्द्र श्च विश्वे च देवा
इति वैश्वदेव्यो भवन्ति ।
वैश्वदेवो वै वृषकपिः ।
वैश्वदेवमेतदहः ।
यज्ञं च नस्तन्वं च प्रजां चादित्यैरिन्द्र स्सह सीषधात्विति सिद्ध्या एव ।
आदित्यैरिन्द्र स्सगणो मरुद्भिरस्मभ्यं भेषजा करद्
इति भेषजमेवैतेन प्रायश्चित्तिं कुर्वते १७१