१७०

अथ ह ततः पुरा मायया दर्शनीयावासतुः ।

तयोरन्यतरोऽग्निं प्रप्लवमाणोऽब्रवीदित्थं वै स करोति यस्सत्यमनृतेन जिघांसतीति ।

अथेत्थं गा न्यकृन्तन् ।

तदन्यतर उपपरेत्य ग्रीवा अपिकृन्तमाणोऽब्रवीदित्थमु वाव स करोति यस्सत्यमनृतेन जिघांसतीति ।

तौ तदेवाम्रियेताम् ।

ता एता भ्रातृव्यघ्न्यो रक्षोघ्न्य ऋचः ।

हन्ति द्विषन्तं भ्रातृव्यमप रक्षः पाप्मानं हत एताभिरृग्भिस्तुष्टुवानः ।

तदाहुर्यद्वालखिल्या विहरन्ति कथमेतासु विहृतासु स्तुवत इति ।

स ब्रूयाद्यदेवैतानि व्यूनाक्षराणि व्यतिषक्तानि पदानि भवन्ति । तेनेति १७०