१६९

तस्य ह पराख्यायैवाग्निमजानन्वरूथ्यो वै नामास्याग्निरिति ।

अथ ह ततः पुराग्निर्वरूथ्यो नाम प्रोचे वरूथ्यो वै नामास्मि ।

स यस्त्वैतदभिराधयाद्यदेव त्वा किं च स ब्रवत्तत्कुरुतादिति ।

तमुपायन्न्

अग्ने त्वं नो अन्तम उत त्राता शिवो भुवो वरूथ्य

इति ।

तानब्रवीत्किङ्कामा आगातेति ।

सुबन्धोरेवासुं पुनर्वनुम इत्यब्रुवन् ।

एषोऽन्तःपरिधीत्यब्रवीत् ।

तमादद्ध्वमिति ।

तं निराह्वयन्न्

अयं मातायं पितायं जीवातुरागमत् ।

इदं तव प्रसर्पणं सुबन्धवेहि निरिहि

इति ।

तं सुबन्धुमसुः पुनः प्राविशत् ।

स यथापुरमभवत् ।

तदाभ्यां किराताकुलीभ्यामाचक्षतेमे वा ऋषयोऽसुं निराह्वयन्निति ।

तावधारयमाणौ निराद्र वताम् ।

तयोरिमानेव पराख्याय सर्वा माया अपाक्रामन् ।

तयोर्ह यत्पापिष्ठतमं रूपाणां तद्रू पमास १६९